________________
श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य णाणी पडिवजए चउरोत्ति ओघेन-सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिकश्रुतज्ञानी युग-I पदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गुणपूर्वकत्वात् तदवाप्तेः, स्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्वा सह तेन चारित्रं प्रतिपद्यते तीर्थकृदु, उक्तं च-“पडिवनंमि चरित्ते चउणाणी जाव छउमत्थो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ ८१९ ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽहचउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवजे । ओरालिए चउक्कं सम्मसुय विउब्विए भयणा ॥८२०॥ | व्याख्या-चत्वार्यपि' सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाक्कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, (ग्रंथाग्रम् ८५०० ) प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात् ,
प्रतिपन्ने चारित्रे चतुर्कोनी यावच्छद्मस्थः
Jain Educatichintional
For Personal & Private Use Only
Vabaron