________________
आवश्यकता
हारिभद्रीयवृत्तिः विभागः१
॥३३५॥
RESOURCES
न तूपात्तकर्मप्रवाहापेक्षयेति, आह च भाष्यकार:-"ण जहण्णाउठिईए पडिवजइ णेव पुवपडिवण्णो । सेसे पुवपवण्णो देसविरतिवन्जिए होज ॥१॥"त्ति गाथार्थः॥ ८१७ ॥ द्वारं ॥ साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहचउरोऽवि तिविहवेदे चउसुवि सणासु होइ पडिवत्ती। हेहा जहा कसाएसु वणियं तह य इहयंपि॥८१८॥ ___ व्याख्या-चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथाऽपि, सन्तीति वाक्यशेषः, इयं भावना
चत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात् , क्षीणवेदःक्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासुआहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णितम् , इहापि तथैव वर्णितव्यं, समुदायार्थस्त्वयम्-सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः। द्वारमिति गाथार्थः॥ ८१८ ॥ गतं द्वारत्रयं, साम्प्रतमायुज्ञानद्वारद्वयाभिधित्सयाऽऽहसंखिज्जाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेण य नाणी पडिवजई चउरो॥८१९॥ ।
व्याख्या-सङ्ख्येयायुर्नरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति भजना-विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्खयेयवर्षायुषाम् , इयं भावना-विवक्षितकालेऽसयेयवर्षायुषां सम्यक्त्व
न जघन्यायुःस्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रतिपन्नो देशविरतिवर्जिते भवेत् ॥ १॥
॥३३५॥
dain Educati
o
nal
For Personal & Private Use Only
Conjainelibrary.org