SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ न्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि ?-भावजागरःद्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति, निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, |भावसुप्तस्तुभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्-अण्डजपोतजजरायजभेद भिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाः-हंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः-हस्त्यादयोऽप्येवमेव, जरायुजाः-मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथम-18 यो योरेवमिति गाथार्थः ।। ८१६ ॥ स्थितिद्वारमधुनाऽऽहहै। उक्कोसयहितीए पडिवजंते य णत्थि पडिवण्णो । अजहण्णमणुक्कोसे पडिवजंते य पडिवण्णे ॥ ८१७॥ | व्याख्या-आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थिति वश्चतुर्णामपि सामायिकानां 'पडिवजंते य णत्थि पडि-2 वण्णो' त्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्व-15 प्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योत्कृष्टः स्थितिशब्दलोपात्, 'पडिवजंते य पडिवण्णो' त्ति, स हि चतुर्णा-II है मपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुल्लकभवगत इति, शेषकर्मराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात् , जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य, Jain Educati o nal For Personal & Private Use Only IONainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy