SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥३३४॥ हरिभदी. यवृत्तिा | विभागः१ धस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः-पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः' सिद्धः, तत्र चतु- मप्युभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावमिश्र एवेति । दृष्टौ विचार्यमाणायां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव, तत्राद्यस्य सामायिकरहितः सामायिकं प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः॥८१४ ॥ गतं द्वारद्वयं, साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाहआहारओ उ जीवो पडिवज्जइ सो चउण्हमण्णयरं । एमेव य पजत्तो सम्मत्तसुए सिया इयरो ॥ ८१५ ॥ ___ व्याख्या-आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत , पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः षडूभिरप्याहारादिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरो' त्ति इतरः-अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्-भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वयस्येति, अपर्याप्तोऽपि सम्यक्त्व श्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ॥ ८१५ ॥ गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वयव्याचिख्यासयेदमाहहै णिहाए भावओविय जागरमाणो चउण्हमण्णयरं । अंडयपोयजराज्य तिग तिग चउरो भवे कमसो ॥८१६॥ व्याख्या-इह सुप्तो द्विविधः-द्रव्यसुप्तो भावसुप्तश्च, एवं जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णा सामायिकानाम ॥३३॥ in Educa For Personal & Private Use Only ane brary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy