________________
CURRRRRR
'विरतिः' समग्रचारित्रात्मिका, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च' देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः ॥ ८१२ ॥ भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽहभवसिद्धिओ उ जीवो पडिवजह सोचउण्हमण्णयरं । पडिसेहो पुण असण्णिमीसए सणि पडिवजे ॥८१३॥ ___ व्याख्या-भवसिद्धिको भव्योऽभिधीयते, भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णा' सम्यक्त्वसामायिकादीनाम् 'अन्यतरत्' एक द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्थं प्रतिपाद्यते, न तु निश्चयतः केवलसम्यक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संझ्यपि, यत आह-संन्नि पडिवज्जे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च,इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राकूप्रतिपन्नान् वाऽऽश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके' सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ ८१३ ॥ गतं द्वारद्वयम् ॥ उच्छासदृष्टिद्वारद्वयाभिधित्सयाऽऽहऊसासगणीसासगमीसग पडिसेह दुविह पडिवण्णो। दिहीइ दोणया खलु ववहारो निच्छओचेव ॥८१४॥दारं । व्याख्या-उच्छ्रसितीति उच्छ्रासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुमपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्याऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' त्ति स एव द्विवि
dain Educatio
n
al
For Personal & Private Use Only
CaMainelibrary.org