SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३३३॥ संमत्तस्स सुयस्स य पडिवत्ती छव्विहमि कालंमि । विरई विरयाविरई पडिवज्जइ दोसु तिसु वावि ॥८११॥ हारिभद्री| व्याख्या-सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधे-सुषमसुषमादिलक्षणे काले सम्भ-18 यवृत्तिः विभागः१ वति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोव्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, 'विरति समग्रचारित्रलक्षणां तथा 'विरताविरतिं' देशचारित्रात्मिकां प्रतिपद्यते कश्चित् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, अपिः । सम्भावने, अस्य चार्थमुपरिष्टाद्वक्ष्यामः,तत्रेयं प्रकृतभावना-उत्सर्पिण्यां द्वयोर्दुष्षमसुषमायां सुषमदुष्षमायां च,अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुष्षमायां चेति,पूर्वप्रतिपन्नस्तु विद्यत एव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः । सर्वकालेष्वेव सम्भवति, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्तु विद्यत एव, बाह्यद्वीपसमुद्रेषु तु काललिगरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति गाथार्थः ॥८११॥ द्वारं ॥ साम्प्रतं गतिद्वारमुच्यते|चउसुवि गतीसु णियमा सम्मत्तसुयस्स होइ पडिवत्ती । मणुएसु होइ विरती विरयाविरई य तिरिएसुं ८१२|| व्याख्या-चतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयं, सम्यक्त्व-|| ॥३३॥ श्रुतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षिते काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति से वयति, पूर्वप्रतिपन्नकस्त्वनयोर्विद्यत एव, तथा मनुष्येषु भवति विरतिः-प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति -10- 14-05-25-45 5-03 Jain Education International For Personal & Private Use Only array og
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy