SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ OROSSOSAURUSSOSOROS इतरस्तु भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूछिमेषु तूभयाभाव इति, उक्तं च-"उभयाभावो पुढवादिएसु विगलेसु होज उववण्णो । पंचेंदियतिरिएसुं णियमा तिण्हं सिय पवजे ॥१॥ णारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥२॥ द्वारं ॥ कालद्वारमधना, तत्र कालस्त्रिविधः-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षविधो भवति, तत्रावसर्पिण्यां सुषमसुषमाख्यश्चतु:सागरोपमकोटीकोटिमानः प्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषमदुष्षमाख्यस्तु सागरोपमकोटीकोटिद्वयमानस्तृतीयः, दुष्षमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, दुष्षमाख्यस्त्वेकविंशतिवर्षसहस्रमानः पञ्चमः, दुष्षमदुष्षमाख्यः पुनरेकविंशतिवर्षसहस्रमान एव षष्ठ इति, अयमेव चोत्क्रमेणोत्सर्पिण्यामपि यथोक्तसहयोऽवसेयः काल इति, अवस्थितस्तु चतुर्विधः, तद्यथा-सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्षमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरूत्तरकुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयो हैमवतैरण्यवतयोः चतुर्थो विदेहेष्विति, तत्रेत्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराह १ उभयाभावः पृथ्ब्यादिकेषु विकलेषु भवेत् उपपन्नः । पञ्चेन्द्रियतिर्यक्षु नियमात् त्रयाणां स्यात्प्रतिपद्यमाने ॥ १॥ नारकदेवाकर्मकान्तरद्वीपेषु द्वयोभेजना तु । कर्मजनरेषु चतुर्णा संमूर्छषु तूभयप्रतिषेधः ॥ २॥ Jain Educatio n al For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy