SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३३२॥ ति गाथार्थः ॥ इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्र- हारिभद्रीतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाह यवृत्तिः पुवाईआसु महादिसासु पडिवजमाणओ होइ । पुव्वपडिवन्नओ पुण अन्नयरीए दिसाए उ ॥ ८१०॥ विभागः १ | व्याख्या-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावगाहनाभावात् , आह च भाष्यकार:-"छिण्णावलिरुयगागिइदिसासु सामाइयं ण जं तासु। सुद्धासु णावगाहइ जीवो ताओ पुण फुसेज्जा ॥१॥” पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनःशब्दस्यैवकारार्थत्वादिति गाथार्थः ॥ ८११॥ तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वश्रुतसामायिकयोरेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यमानकस्तु नैवेति, उक्तं च-"अट्ठसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुवपवण्णो सिय णण्णो तावपण्णवए ॥१॥" भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नश्चतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, १॥३३२॥ छिन्नावलीरुचकाकृतिदिनु सामायिकं न यस्मात्तासु । शुद्धासु नावगाहते जीवः ताः पुनः स्पृशेत् ॥ ३॥ २ अष्टसु चतुर्णा नियमात्पूर्वप्रपन्नस्तु द्वयोर्द्वयोरेव । द्वयोस्तु पूर्वप्रपन्नः स्यात् नान्यस्तापप्रज्ञापकयोः ॥ १॥ dal Educa t ional For Personal & Private Use Only P ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy