________________
धम्, अक्षरानक्षरादिभेदादनेकविधं चेति, 'चारित्रम्' इति चारित्रसामायिकं तच्च क्षायिकादि त्रिविधं, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम्, अथवा गृहीताशेषविकल्पं द्विविधम्- अगारसा - मायिकमनगारसामायिकं च, तथा चाह - 'दुविधं चैव चरितं अगारमणगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगाः - वृक्षास्तैः कृतमगारं गृहं तदस्यास्तीति मतुबूलोपादगारः - गृहस्थस्तस्ये दम् - आगारिकम् इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात्, अनगारः - साधुस्तस्येदम् - आनगारिकं चैव । आह - सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामा - यिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोर्नियमेन भाव इति ज्ञापनार्थ, चरमत्वाद्वा यथाsस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति गाथार्थः ॥ साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं व्याचि - ख्या सुस्तस्याध्ययन रूपत्वादाह
अज्झयपि यतिविहं सुते अत्थे य तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ १५० ॥ ( भा० )
व्याख्या—अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्व सामायिकमप्यौपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात निर्युक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह - 'शेषेष्वपि चतुर्विंशतिस्तवादिष्वन्येषु वाऽध्ययनेषु भवति एषैव निर्युक्तिः - उद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह - अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, अपान्तराले किमर्थमिति, उच्यते, 'मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती' ति न्यायप्रदर्शनार्थं इति गाथार्थः ॥ द्वारं ॥ अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org