SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३२८॥ BESSERUGOG व्याख्यायते-द्रव्यार्थिकवादी पर्यायार्थिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पा-18|| |हारिभद्रीदव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वादू , अपरोपादेयत्वात् , यवृत्ति द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात् , तस्मादात्मैव सामायिकमिति विभागः१ गाथार्थः॥ एवमवगतोभयनयमतश्चोदक आह-किमत्र तत्त्वमिति ?, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामायिक, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमःजज जे जे भावे परिणमइ पओगवीससा दव्वं । तं तह जाणाइ जिणो अपजवे जाणणा नत्थि ॥ ७९५ ॥ ___ व्याख्या-यद् यद् यान् यान् 'भावान्' आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविस्रसा(तो) द्रव्यं,भावार्थः तत्तथापरिणाममेव जानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्व गाथार्थः॥ साम्प्रतं कतिविधमिति द्वारमिति व्याख्यायते, तत्रसामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरित्तं अगारमणगारियं चेव ॥ ७९६॥ | व्याख्या-'सामायिक' प्रागनिरूपितशब्दार्थ, 'चः' पूरणे 'त्रिविधं त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिक, तद् द्विविधं नैसर्गिकमधिगम ॥३२८॥ च, अथवा दशविधम्-एकैकस्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात् , अथवा त्रिविधं-क्षायिक क्षायोपशमिकमौपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिक, तच्च सूत्रार्थोभयात्मकत्वात् त्रिवि dain EducatioXisonal For Personal & Private Use Only KelMainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy