SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ व्याख्या-उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, चशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-गुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्ययपरिणामत्वात, | पत्रनीलतारक्ततादिवत् , तदतिरिक्तस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, वान्धेयादिवत् , किञ्च 'दबप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात् , अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात् , तस्माद् गुणः सामा|यिकमिति गाथार्थः॥ एवं पर्यायाथिकेन स्वमते प्रतिपादिते सति द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः, यस्मात्जं जं जे जे भावे परिणमइ पओगवीससा व्वं । तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि ॥७९४ ॥ दारं ॥ ___ व्याख्या-यद् यद् यान्यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविनसातो द्रव्यं तत्,प्रयोगेन घटादीन् विश्रसातोऽधेन्द्रधनुरादीन् , द्रव्यमेव तदुत्प्रेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत् , तथाहि-न तत्र केचनोत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात् , किन्तु तदेव तत्र परमार्थसदिति, किञ्च-तत् 'तथैव' अन्वयप्र|धानं पर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनः 'अपज्जवे जाणणा णत्थि' त्ति अपर्याये-निराकारे 'जाणणा नत्थि'त्ति परिज्ञा नास्ति, न च ते पर्यायाः तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत् , केवलिनाऽप्यवगम्यमानदत्वात् , केवलस्वात्मवत् , तस्माजीव एव सामायिकमिति गाथार्थः॥ अथवा 'उप्पजंति' त्ति इयमेव गाथा द्रव्यार्थिकमतेन Jan Educati o nal For Personal & Private Use Only H ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy