SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आवश्यक |हारिभद्री| यवृत्तिः विभागः१ ॥३२७॥ कथम् ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् , चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् , षष्ठस्य च रात्रिभोजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति गाथार्थः ॥ एवं चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्वद्रव्यविषयमेव सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र सामायिकमजीवादिव्युदासेन जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सकलनयाधारद्रव्यार्थिकपर्यायार्थिकाभ्यां स्वरूपव्यवस्थोपस्थापनायाहजीवो गुणपडिवन्नो णयस्स व्वढियस्स सामइयं । सोचेव पज्जवणयट्ठियस्स जीवस्स एस गुणो ॥७९२॥ । व्याख्या-'जीवः' आत्मा, गुणैः प्रतिपन्न:-आश्रितः-गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य सामायिकमिति वस्तुत आत्मैव सामायिक, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य, परमार्थतो यस्माजीवस्य एष गुण इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्थं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धेः, रूपाद्यर्थान्तररूपघटवत् , तस्माद्गुणः सामायिकमिति हृदयं, न तु जीव इति गाथार्थः॥ साम्प्रतं पर्यायार्थिक एव स्वं पक्षं समर्थयन्नाहउप्पज्जंति वयंति य परिणम्मति य गुणा ण व्वाइं । व्वप्पभवा य गुणा ण गुणप्पभवाई व्वाइं ॥७९३॥ ॥३२७॥ JainEducation For Personal & Private Use Only l ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy