________________
*
*
*
रूपणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात् , सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः ॥ तत्र यदुक्तम् 'आत्मा
खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिक तथाभूतमभिधित्सुराह मूलभाष्यकार:PI सावजजोगविरओ तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होई ॥१४९॥ (मू० भा) | व्याख्या-सावद्ययोगविरतः अवद्यं मिथ्यात्वकषायनोकवायलक्षणं सहावद्येन सावधो योगस्तद्विरत:-तद्विनिवृत्तः, त्रिभिः-मनोवाकायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः-प्रयत्नवान्, तथाऽवश्यकर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पच्चक्खाणं आवाए सबदवाणं' ति, तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामस्योपदर्शयन्नाह|पढमंमि सव्वजीवा बिइए चरिमे य सव्वव्वाई । सेसा महव्वया खलु तदेकदेसेण व्वाणं ॥७९१ ॥
व्याख्या-'प्रथम' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवाः' त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृषावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्व
विषयत्वेन द्रष्टव्यानि, कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात् , तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य, तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना । 'सेसा महबया खलु तदेक्कदेसेण दवाणं' ति शेषाणि महाव्रतानि, खल्वित्यवधारणार्थः, | तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहारः,
ARCRRRRRRR
*
*
*
*
*
dain Educati
For Personal & Private Use Only
Mamijainelibrary.org