________________
आवश्यक-
हारिभद्रीयवृत्तिः विभाग: १
॥३२६॥
कमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे दे, तद्भावेऽपि मोक्षाभावात् , तथाहि-समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः ॥ द्वारं ॥ 'उद्देसे निद्देसे य' इत्याद्युपोद्घातनियुक्तिप्रथमद्वारगाथावयवार्थों गतः, इदानी द्वितीयद्वारगाथाप्रथमावयवः किमिति द्वार व्याख्यायते-किं सामायिक ?, किं तावज्जीवः ? उताजीवः? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत | गुण इत्याशङ्कासम्भवे सत्याहआया खलु सामइयं पचक्खायंतओ हवइ आया। तं खलु पच्चकूखाणं आवाए सव्वव्वाणं ॥७९॥
व्याख्या-'आत्मा' जीवः खलुशब्दोऽवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादिपूर्वोक्तविकल्पव्यवच्छेदः, 'पच्चक्खायंतओ हवइ आय' त्ति स च प्रत्याचक्षाणः-प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदादू वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावद्यनिवृत्तिस्वस्वभावावस्थितत्वात् , शेषः संसारी पुनरात्मैव न भवति, प्रचुरघातिकमभिस्त स्य स्वाभाविकगुणतिरस्करणात् , अतो द्वितीयाऽऽत्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीव-| परिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सबदवाणं' ति सर्वद्रव्याणामापात-आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञेयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-कि सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सतिविषयनिरूपणमस्यान्याय्यम् , अप्रस्तुतत्वाद्, बाह्यशास्त्रवत् , उच्यते,अप्रस्तुतत्वादित्यसिद्धं, तथाहि-सामायिकस्य विषयनि
॥३२६॥
Jain Educati
o
nal
For Personal & Private Use Only
A
njainelibrary.org