________________
तलिङ्गत्वात् , नापि तीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तदर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत इति गाथार्थः॥ आह-बोटिकानां यत् कारितं तत्र का वार्ता ?, उच्यतेमिच्छादिट्ठीयाणं जं तेसिं कारियं जहिं जत्थ । सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य ॥ ७८८ ॥ दारं॥ ।
व्याख्या-'मिथ्यादृष्टीनां बोटिकानां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धं -कल्प्यमिति भावना, मूलगुणविषयं तथोत्तरगुणविषयं चेति गाथाथैः॥ उक्तं समवतारद्वारम् , अधुनाऽनुमतद्वारं व्याख्यायते-तत्र यद्यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाहतवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो। सहजुसुयाणं पुण निव्वाणं संजमो चेव ॥७८९॥ दारं ॥ __ व्याख्या-तापयतीति तपः तपःप्रधानः संयमस्तपःसंयमः असौ 'अनुमतः' अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम्-आहेतमिति भावना, किं ?-प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, 'ववहारों' त्ति एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच्च तदधोवर्तिनगमसंग्रहनयद्वयमपि गृहीतं वेदितव्यं, ततश्चैतदुक्तं भवतिनैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते, तपःसंयमग्रहणाच्चारित्रसामायिक, प्रवचनग्रहणाद् श्रुतसामायिकं, चशब्दात् सम्यक्त्वसामायिकम् , आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्ग एव निर्वाणं संयम एवेत्यनुमतम् , ऋजुसूत्रमुल्लङ्यादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः, एतदुक्तं भवति-ऋजुसूत्रादयः सर्वे चारित्रसामायि
Jain Educati
o
nal
For Personal & Private Use Only
Mainelibrary.org