________________
आवश्यक॥३२५॥
सत्या दिट्ठीओ जाइजरामरणगन्भवसहीणं । मूलं संसारस्स उ भवंति निग्गंथरूणं ॥ ७८६ ॥ व्याख्या - सप्तैता दृष्टयः, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीना' मिति, जातिग्रहणान्नारका दिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं 'मूल' कारणं, भवन्तीति योगः, मा भूत् सकृद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह— 'संसारस्स उ' संसरणं संसारः - तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदीर्घो गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थः ॥ आह-एते निह्नवाः किं साधवः ? उत तीर्थान्तरीयाः ? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्यर्थाय कृतमशनादि शेषाणामकल्प्यं, नैवं निहृवानामिति, आह च
पवयणनीयाणं जं तेसिं कारियं जहिं जत्थ । भज्जं परिहरणाए मूले तह उत्तरगुणे य ॥ ७८७ ॥
व्याख्या - 'पवयणनीहूयाणं' ति निहूयंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचनं यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् 'भाज्यं' विकल्पनीयं परिहरणया, कदाचित् परिहियते कदाचिन्नेति, यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदा न परिड्रियत इति, अथवा परिहरणा - परिभोगोऽभिधीयते, यत उक्तम् - "धारणा उवभोगो परिहरणा तस्स परिभोगो” तत्र भाज्यं 'मूले' मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृही
१ धारणमुपभोगः परिहरणं तस्य परिभोगः.
Jain Education nonal
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥३२५॥
ainelibrary.org