SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ती' ति कौण्डिन्यकोट्टवीरं तस्मात् , परम्परास्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, बोटिकदृ ष्टिरघ्याहरणीयेति गाथार्थः ॥ साम्प्रतं निह्नववक्तव्यतां निगमयन्नाह___एवं एए कहिया ओसप्पिणीए उ निण्हया सत्त । वीरवरस्स पवयणे सेसाणं पव्वयणे णत्थि ॥ ७८४ ॥ व्याख्या-'एवम् उक्तेन प्रकारेण 'एते' अनन्तरोक्ताः 'कथिताः' प्रतिपादिताः, अवसर्पिण्यामेव निवाः सप्त अमी वीरवरस्य 'प्रवचने तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नस्थित्ति न सन्ति, यद्वा नास्ति निवसत्तेति गाथार्थः॥ मोत्तुणमेसिमिक्कं सेसाणं जावजीविया दिट्ठी। एकेकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ ७८५॥ व्याख्या-मुक्त्वैषामेकं गोष्ठामोहिलं निवाधर्म 'शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वान्मा भूत् कश्चित् तथैव प्रतिपद्येत (त्तेति), अतो ज्ञाप्यते-निह्नवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च एत्तो' त्ति अतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यो, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽहुबेहुरता जीवप्रदेशिकान्-भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथ-एकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिलमधिकृत्यैकैकस्य त्रयो दोषा इति यथाहुबहुरतान् गोष्ठामाहिलाः-दोषत्रयाद् भवन्तो मिथ्यादृष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह SARAMASSACREASE For Personal & Private Use Only jainelibrary.org Jain Education International
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy