________________
आवश्यक
॥३२२॥
Jain Education
प्रत्याख्याने तत् प्रत्याख्यानं 'दुष्टम्' अशोभनं किमिति ?, यतस्तत्र 'आससा होई' त्ति अनुस्वारलोपादाशंसा भवति, प्रयोगश्च - यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं, परिमाणपरिच्छिन्नावधित्वात् श्वः सूर्योदयात् परतः पारयि ष्यामीत्युपवासप्रत्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवदिति गाथार्थः ॥ एवं पन्नवेंतो विंझेण भणिओ-न होति एयं एवं जं तुमे भणियं, सुण, एत्थंतरंमि य जं तस्स अवसेसं नवमपुबस्स तं समत्तं, ततो सो अभिनिवेसेण पूसमित्तस्यासं चैव गंतूण भणइ - अण्णा आयरिएहिं भणियं अन्ना तुमं पण्णवेसि ॥ उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह- ननु यदुक्तं भवता - ' यावज्जीवं कृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि' एतदयुक्तं, यतः कृतप्रत्याख्यानानां साधूनां नाशंसा - मृताः सेविष्याम इति, किन्तु | मृतानां देवभवे मा भूद् व्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथम् ?, अपरिमाणमिति | कोऽर्थः ?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः ?, यदि यावच्छतिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति । एवं आयरिएहिं भणिए न पडिवज्जइ, ततो जेऽवि
१ एवं प्रज्ञापयन् विन्ध्येन भणितः न भवत्येतत् एवं यत्त्वया भणितं शृणु, अत्रान्तरे च यत्तस्यावशिष्टं नवमपूर्वस्य तत्समाप्तं ततः सोऽभिनिवेशेन पुष्पमित्रसकाशमेव गत्वा भणति - अन्यथाऽऽचार्यैर्भणितमन्यथा त्वं प्रज्ञापयसि २ एवमाचार्यैणिते न प्रतिपद्यते, ततो येsपि
katonal
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥३२२॥
ainelibrary.org