________________
|कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यति नैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात् , दृष्टान्तोऽपि न साधनधर्मानु
गतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाद्भिन्नं च जीवात् कम्र्मेति, तथा यच्चोक्तम्-'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशं स्पृष्टो नभसेव उत त्वङ्मात्रे कंचुकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदा न्तिकयोरसाम्यं, कंचुकेन प्रतिप्रदेशमस्पृष्टत्वात् , अथ त्वग्मात्रे स्पृष्ट इति, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्त्तित्वाद, बाह्याङ्गमलवत्, एवं च सर्वो जीवो मोक्षभाक्, कर्मानुगमरहितत्वात् , मुक्तवत् , तथाऽन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकमाभावात् , सिद्धस्येव, न च भिन्नदेशस्यापि वेदनाहेतुत्वं युज्यते,शरीरान्तरगतेनातिप्रसङ्गात् ,न च स्वकृतत्वं निबन्धनम् , अत्रान्तर्वर्तिप्रदेशानां कर्मयोगरहितानां कर्तृत्वानुपपत्तेः, तस्माद् यत् किञ्चिदेतदिति । एवं गेण्हिऊण सो विझेण भणितो
एवं आयरिया भणंति, ततो सो तुण्हिक्को हिओ चिंतेइ-समप्पउ तो खोडेहामि, अन्नया नवमे पुचे साहूण पच्चक्खाणं ६ वणिजइ, जहा-पाणाइवायं पच्चक्खामि जावज्जीवाए इत्यादि, गोष्ठामाहिलो भणति-नैवं सोहणं, किं तर्हि ? पच्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । जेसिं तु परीमाणं तं दुलु आससा होइ ॥ १४४ ॥ (मू० भा व्याख्या-प्रत्याख्यानं श्रेयः, 'अपरिमाणेन' कालावधिं विहाय कर्तव्यं, एवं क्रियमाणं श्रेयो भवति, येषां तु परिमाणं
१ एवं गृहीत्वा स विन्ध्येन भणितः-एवमाचार्या भणन्ति, ततः स तूष्णीकः स्थितश्चिन्तयति-समाप्यतां ततः स्खलयिष्यामि, अन्यदा नवमे पूर्व साधूनां प्रत्याख्यानं वर्ण्यते, यथा प्राणातिपातं प्रत्याख्यामि यावज्जीवं, नैवं शोभनम् ।
an Education
For Personal & Private Use Only
Malainelibrary.org