SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ वेदिज्जंति, जतो समओ मणो य सुहुमा ण लक्खिज्जंति उत्पलपत्रशतवेधवत् एवं सो पण्णवितोऽवि जाहे न पडिवज्जइ ताहे उग्घाडितो, सो हिंडतो रायगिहं गतो, महातवो तीरप्पने नाम पासवणे, तत्थ मणिणागो नाम नागो, तस्स चेतिए ठाति, सो तत्थ परिसामझे कहेति - जहा एगसमएण दो किरियाओ वेदिजंति, ततो मणिनागेण भणियं तीसे परिसाए मज्झे-अरे दुट्ठसेहा ! कीस एयं अपण्णवणं पण्णवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियंजहा एवं किरियं वेदेति, तुमं तेसिं किं लट्ठतरओ जाओ ?, छड्डेहि एयं वादं, मा ते दोसेणासेहामि - 'मणिनागेणारद्धो भयोववत्तिपडिवोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कतो ॥ १ ॥ त्ति गाथार्थः ॥ गतः पञ्चमो निह्नवः, षष्ठमधुनोपदर्शयन्नाह— पंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उववण्णा ॥ १३५ ॥ ( भा० ) व्याख्या - पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य वीर ( ग्रंथाग्रं ८०००) स्य, अत्रान्तरे पुर्यन्तरञ्जिकायाम्, अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः ॥ कथमुत्पन्नेति प्रदर्श्यते तत्र १ वेद्येते, यतः समयो मनश्च सूक्ष्मे न लक्ष्येते, एवं स प्रज्ञापितोऽपि यदा न प्रतिपद्यते तदोद्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभं नाम प्रश्रवणं, तत्र मणिनागो नाम नागः, तस्य चैत्ये तिष्ठति, स तत्र पर्षन्मध्ये कथयति-यथा एकसमयेन द्वे क्रिये वेद्येते, ततो मणिनागेन भणितं तस्याः पर्षदो मध्ये- अरे दुष्टशैक्ष ! कथमेतामप्रज्ञापनां प्रज्ञापयसि ?, अत्रैव स्थाने स्थितेन भगवता वर्धमानस्वामिना व्याकृतं यथैकां क्रियां वेदयति, त्वं तेभ्यः किं लष्टतरो जातः ?, त्यजैनं वादं मा त्वां (ते) दोषेण शिक्षयामि मणिनागेनारब्धो भयोपपत्तिप्रतिबोधित उक्त्वा । इच्छामः (इति) गुरुमूलं गत्वा ततः प्रतिक्रान्तः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy