SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तद्विगुणः, चः समुच्चये, संवत्सरो-द्वादशमासात्मकः, युगं पञ्चसंवत्सरम् , असङ्ख्येययुगात्मकं पलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोव्यात्मकं सागरमाख्यायते, उत्सर्पिणी-सागरोपमदशकोटीकोव्यात्मिका, एवमवसर्पिण्यपि, परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः॥ द्वारम् ॥ यथाऽऽयुष्ककालद्वारमुच्यते-तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा चाहनेरइयतिरियमणुयादेवाण अहाउयं तु जंजेण। निव्वत्तियमण्णभवे पालेंति अहाउकालो सो ॥ ६६४ ॥दारं॥ व्याख्या-नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्तितं-रौद्रध्यानादिना कृतम् 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः। द्वारम् ॥ साम्प्रतमुपक्रमकालद्वारमाहदुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥६६५॥ व्याख्या-द्विविधश्चासावुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह-सामायारी अहाउअंचेव' समाचरणं समाचारः-शिष्टाचरितः क्रियाकलापस्तस्य भावः "गुणवचनब्राह्मणादिभ्यः कर्मणि च" (पा०५-१-१२४) प्य समाचार्य, पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चे (पा० ४-१-४१) ति डीए, यस्ये (पा० यस्येति च ६०४-१४८) त्यकारलोपः, यस्य हल (पा० ६-४-४९) इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम्-उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन ॐॐॐॐ त dain Education International For Personal & Private Use Only nelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy