________________
आवश्यक
॥२५८॥
GAMECCASIMMUNMUS
क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतोरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्ट- हारिभद्रीस्योपक्रमो वेदितव्य इत्यभिप्रायः। तत्र सामाचारी त्रिविधा-'ओहे दसहा पदविभागे'त्ति 'ओघः' सामान्यम्, ओघः
यवृत्तिः
विभागः१ सामाचारी सामान्यतः सङ्केपाभिधानरूपा, सा चोघनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभाग-18/ सामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात्माभृतात् , तत्राप्योघप्राभृतप्राभृतात् नियूद्धति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानां तावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रनजितपरिज्ञानार्थ नियूंढेति । पदविभागसामाचार्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव निव्यूटेति गाथार्थः ॥ साम्प्रतमोघ-15 नियुक्तिर्वाच्या, सा च सुप्रपञ्चितत्वादेव न विब्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहइच्छा मिच्छी तहाकारो, आवसिया य नि सीहिया। आपुच्छणी य पडिपृच्छा छंदणा य निमंतणा ॥ ६६६ ॥ उवसंर्पयो य काले, सामायारी भवे दसहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छं ॥६६७॥ दारगाहाओ॥
व्याख्या-एषणमिच्छाकरणं कारः, तत्र कारशब्दःप्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रिययान च बलाभियोगपूर्विकयेति भावार्थः१, तथा मिथ्या-वितथ(ग्रन्था-६५००)मनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदित
॥२५८॥
Jain Education International
For Personal & Private Use Only
mjainelibrary.org