SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभाग:१ ॥२५७॥ व्याख्या-चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य स्थान-स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात् अथवा 'द्रव्यं तु तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः ॥ चेतनाचेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाहगइ सिद्धा भवियाया अभविय पोग्गल अणागयडाय।तीय तिन्नि काया जीवाजीवहिई चउहा॥६६॥दारं॥ ___ व्याख्या-'गतित्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध'त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः 'भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल'त्ति पूरणगलनधर्माणः पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अणागयद्धत्ति अनागताद्धा-अनागतकालः, स हि वर्तमानसमयादिः सादिरनन्तत्वाचापर्यवसान इति, 'तीयद्ध'त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि कायत्ति धर्माधर्माकाशास्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवस्थितिश्चतुर्द्धति गाथार्थः॥द्वारम् । अद्धाकालद्वारावयवार्थ व्याधिख्यासुराहसमयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासाय। संवच्छर युग पलिया सागर ओसप्पि परियष्टा ॥६६३।।दारं ___ व्याख्या-तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिका-असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तदिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निशमित्यर्थः, पक्षः-पञ्चदशाहोरात्रात्मकः, मास: ॥२५७॥ Jain Education rational For Personal & Private Use Only wow.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy