SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ इति गाथार्थः॥ उक्तः सामायिकार्थसूत्रप्रणेवणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लङ्ग्य कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् 'अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान्' इति परिभाषासामर्थ्यादिति, नियुक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति । स च कालो नामाघेकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽहव्वे अद्ध अहाउय उवक्कमे देसकालकाले य।तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥६६०॥ दारगाहा॥ व्याख्या-तत्र 'द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धेति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्र-- मकालः' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरं, ततश्चाभीष्टवस्त्ववाप्स्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चः समुच्चये, तथा च 'प्रमााकालः' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्ण-15 कालः, 'भावि'त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेने ति भावकालेनाधिकार इति गाथासमुदायार्थः॥ साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽहचेयणमचेयणम्स व दव्वस्स ठिड उ जा चउवियप्पा । सा होइ दव्वकालो अहवा दवियं तुतं चेव ॥६६१॥ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy