________________
सोलस वासाणि तया जिणेण उप्पाडियस्स णाणस्स । जीवपएसियदिही उसभपुरंमी समुप्पण्णा॥१२७॥(भा०) ___ व्याख्या-षोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकदृष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः ॥ कथमुत्पन्ना? रायगिहं नगरं गुणसिलयं चेइय, तत्थ वसू नामायरिओ चोदसपुबी समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुबे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तवं सिया?, नो इणमढे समढे, एवं दो जीवपएसा तिण्णि संखेज्जा असंखेजा वा, जाव एगेणावि पदेसेण ऊणो णोजीवोत्ति वत्तवं सिया, जम्हा कसिणे पडिपुण्णे लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तव' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतो व्युत्थितः सन्नित्थमभिहितवान्यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो-नैतदेवं, जीवाभावप्रसझात्, कथम् !, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिमाणत्वाद् , अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवमप्युक्तो यदा न प्रतिपद्यते तोहे से काउस्सग्गो कतो, एवं सो बहूहिं
१ राजगृहं नगरं गुणशीलं चैत्यं, तत्र वसुनामा आचार्यश्चतुर्दशपूर्वी समवसृतः, तस्य शिष्यस्तिष्यगुप्तो नाम, स आत्मप्रवादपूर्वे इममालापकं अध्येति-एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकेनापि प्रदेशेनोनो न जीव इति | वक्तव्यं स्यात् , यस्मात् कृत्वप्रतिपूर्णकोकाकाशप्रदेशतुल्यप्रदेशो जीव इति वक्तव्यं" एवमधीयानः । २ तदा तस्य कायोत्सर्गः कृतः, एवं स बहुभिर
Jain Education Internal anal
For Personal & Private Use Only
Lainelibrary.org