SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ SOLOSLUSSSSSSSSSS व्याख्या-गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमवद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठमबद्धं परूविंसु' वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् सञ्जाता इति गाथार्थः ॥ साम्प्रतं येषु पुरेषूत्पन्नास्त एते निवास्तानि प्रतिपादयन्नाह| सावत्थी उसभपुर सेयविया मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ ७८१॥ | ___ व्याख्या-श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च नगराणि, निह्नवानां यथायोगं प्रभवस्थानानि, वक्ष्यमाणभिन्नद्रव्यलिङ्गमिथ्यादृष्टिबोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ॥ भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निवः समुत्पन्न इति प्रतिपादयन्नाहचोद्दस सोलस वासा चोदसवीसुत्तरा य दोणि सया। अट्ठावीसा य दुवे पंचेव सया उ चोयाला ॥ ७८२॥ ___ व्याख्या-चतुर्दशषोडशवर्षाणि तथा 'चोदसवीसुत्तरा य दोन्नि सय' त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि, इति गाथार्थः॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति ॥ |पंच सया चुलसीया छच्चेव सया णवोत्तरा होंति । णाणुप्पत्तीय दुवे उप्पण्णा णिव्वुए सेसा ॥७८३ ॥ व्याख्या-पञ्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निवृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाः Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy