SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३१॥ SAUSASHISPOSICISSORS दमधीयते तद्वेदिनो वा 'तदधीते तद्वेत्ती' (पा०४-२-५९) त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः ।। हारिभद्री'दुग'त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वया यवृत्तिः वप्ररूपिण इत्यर्थः ५ । 'तिग' त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते विभागः१ त्रैराशिकाः, राशित्रयख्यापका इति भावना ६ । 'अबद्धिगा चेव' त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमबद्धम्, अबमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम् ७। 'सत्तेते निण्हया खलु तित्थंमि उ वद्धमाणस्स' त्ति सप्तैते निवाः खलु, निव इति कोऽर्थः -स्वप्रपञ्चतस्तीर्थकरभाषितं निहतेऽर्थ पचाद्यचि (नन्दिग्रहिपचादिभ्योल्युणिन्यचः पा० ३-१-१३४) ति निह्नवो-मिथ्यादृष्टिः, उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥" खल्विति विशेषणे, किं विशिनष्टि-अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-एतेसिं निग्गमणं वोच्छामि अहाणुपुबीए' त्ति गाथार्थः ॥ साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहबहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ॥७७९॥ व्याख्या-बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाश्च तिष्यगुप्तादुत्पन्नाः,5 ॥३१॥ अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः॥ गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती । थेरा य गोहमाहिल पुट्ठमबद्धं परूविंति ॥ ७८० ॥ dain Educati o nal For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy