SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तेसिं' सगासं, ताहे तेहिं सधेहिं अब्भुट्ठितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अण्णे बुग्गाहेइ, ते न सति वुग्गाहेउं । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणइ, भणइ य-तुम्भेऽत्थ निष्पावयकुडगा, ताहे | तेसु उठ्ठिएस विंझो अणुभासइ तं सुणेइ, अट्ठमे कम्मप्पवाय पुढे कम्मं वणिजइ, जहा कम्मं बज्झइ, जीवस्स य कम्मस्स य कहं बंधो ?, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नतो परूविंतो य निण्हओ जाओति ॥ अनेन प्रस्तावेन क एते निह्नवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराह बहुरय पएस अन्वत्तसमुच्छादुगतिगअबद्धिया चेव । सत्तेए णिण्हगा खलु तित्थंमि उवद्धमाणस्स ॥ ७७८ ॥ व्याख्या – 'बहुरय'त्ति एकसमयेन क्रियाध्यासित रूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः - सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः १ | 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निह्नवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २ । 'अद्यत्त' त्ति उत्तरपदलोपादव्यक्तमता अव्यक्ताः, यथा भीमसेनो भीम इति, व्यक्तं स्फुटं, न व्यक्तमव्यक्तम् - अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताद्यवगमे | सन्दिग्धबुद्धय इति भावना ३ । 'समुच्छेद' त्ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः - विनाशः, समुच्छे १ तेषां सकाशं तदा नतैः सर्वैरभ्युत्थितो भणितश्च - इहैव तिष्ठ, तदा नेच्छति, तदा स बहिः स्थितोऽन्यान् व्युद्राहयति, तान् न शक्नोति व्युड्राहयितुम् । इतश्चाचार्या अर्थपौरुषीं कुर्वन्ति, स न शृणोति, भणति च यूयमत्र निष्पावकुटसमानाः, तदा तेषूत्थितेषु विन्ध्योऽनुभाषते तत् शृणोति, अष्टमे कर्मप्रवादपूर्वे कर्म वर्ण्यते, यथा कर्म बध्यते, जीवस्य च कर्मणश्च कथं बन्धः १, अत्र विचारे सोऽभिनिवेशेनान्यथा मन्यमानः प्ररूपयंश्च निह्नवो जातः इति । Jain Education atonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy