________________
कालियसुयं च इसि भासियाई तइओ य सूरपण्णत्ती । सव्वो य दिट्ठिवाओ चउत्थओ होइ अणुओगो १२४ ( मू. भा)
व्याख्या -कालिक श्रुतं चैकादशाङ्गरूपं, तथा ऋषिभाषितानि - उत्तराध्ययनादीनि, 'तृतीयश्च' कालानुयोगः, स च सूर्यप्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञत्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, सर्वश्च दृष्टिवादश्चतुर्थो भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाथार्थः ॥ तत्र ऋषिभाषितानि धर्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद् दृष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाद् धर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽह
जं च महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि । चरणकरणाणुओगोत्ति कालियत्थे उवगयाई ॥ ७७७ ॥ व्याख्या—यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे उपगतानीति गाथार्थः ॥
इणि जहा देविंदवंदिया अज्जरक्खिया तहा भण्णइ - ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता । इतो य सक्को देवराया महाविदेहे सीमंधरसामिं पुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे
१ इदानीं यथा देवेन्द्रवन्दिता आर्यरक्षितास्तथा भण्यते - ते विहरन्तो मथुरां गताः, तत्र भूतगुहायां व्यन्तरगृहे स्थिताः । इतश्च शक्रो देवराजो महाविदेहेषु सीमन्धरस्वामिनं पृच्छति निगोदजीवान्, यदा निगोदजीवा भगवता व्याकृतास्तदा
Jain Educationonal
For Personal & Private Use Only
ainelibrary.org