SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ यतो गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति ।। तथा आस्यो-दंष्ट्राः तासु विषमेषामैस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वालीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः। तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुदेशपूर्वविदः। अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीत्यहन्तः तीर्थकरा इत्यर्थः। 'चक्रवर्तिनः' चतुर्दशरत्नाधिपाः षटूखण्डभरतेश्वराः। 'बलदेवाः' प्रसिद्धा एव । 'वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ ७० ॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारः सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडमी ठियं संतं ॥७१॥ चित्तूण संकलं सो वामगहत्येण अंछमाणाणं । धुंजिज व लिंपिज्ज व महुमहणं ते न चायंति ॥७२॥ दोसोला बत्तीसा, सबबलेणं तु संकलनिबद्धं । अंछंति चक्कवहिं, अगडतडंमी ठियं संतं ॥७३॥ AAAAAAAAAकर १लब्धितो ये आसीविषलब्धिमन्तः पञ्चेन्द्रियतिर्यगादयस्ते, देवाः पर्याप्तावस्थायां शापादिना व्यापादने समर्थी अपि देवभवप्रत्ययिकत्वान्न तद्दि| वक्षितमिति अपर्याप्तावस्थायामेवैतब्यपदेशो देवानाम्. * मेषामिति.+श्व सह. ठानतो वा० अपि च तलंमि | तलंमि. dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy