________________
हारिभद्री
आवश्यक
यवृत्तिः
॥४६॥
विभागः१
पुरुषस्याँबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थ:-असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पोलोचितः, इदानी|मबाधया चिन्त्यते-अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिरिति चत्वारोऽपि विकल्पाः संभवन्ति, संबद्धे तु विकल्पाभावः। तथा 'लोके' चतुर्दशरज्ज्वात्मके पश्चास्तिकायवति, 'अलोके च' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च संबद्धः, कथम् ?-पुरुषे संबद्धो लोके च-लोकप्रमाणावधिः, पुरुषे न लोके-देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शून्यो भङ्गः, न लोके न पुरुष-बाह्यावधिः, इयं भावना-लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः ॥ ६७ ॥ इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
गइनेरइयाईया, हिट्ठा जह वणिया तहेव इहं । इड्डी एसा वणिजइत्ति तो सेसियाओऽवि ॥ १८॥ व्याख्या-तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम्इह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्य
* नेदं प्रत्यन्तरे.
॥४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org