________________
या तीर्थकृतामपि प्रसिद्धतरसारित्यतस्तत्प्रदर्शनार्थमवत विरुध्यत इति, न, तेषां का विवक्षितत्वाददोष
सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं पश्यन्ति सर्वतः इत्ये. तावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थक, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नारकदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थमवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह-यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य 'निष्ठत्वात् , केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः॥६६॥ एवं देशद्वारावयवार्थमभिधायेदानी क्षेत्रद्वारं 'विवुवूषराह
"संखिजमसंखिज्जो, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ ६७॥ __ व्याख्या-तत्र संबद्धश्चासंबद्धश्च अवधिर्भवति, किमुक्तं भवति?-कश्चिद् द्रष्टरि संबद्धो भवति, प्रदीपप्रभावत्, | कश्चिच्च असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा। पूर्णः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः,
___*ति, किमुक्तं भवति ?-सदाऽवधेरबाह्या भवन्ति, नियतावधय इत्यर्थः । आह. + स्याप्यनष्टत्वात्. विवरीषु
कश्चित्वसं० । अतिविप्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org