________________
आवश्यक
॥४५॥
दृष्टीनां तत्रोपपाताभावात् , स च क्षेत्रतः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥६५॥ इदानीं देशद्वारावयवार्थ | हारिभद्रीप्रचिकटयिषुरिदमाह
यवृत्तिः । रइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥६६॥
विभागः१ ब्याख्या-'नारकाः' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकरा-3 श्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात् , प्रदीपवत् , ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिश्विति, सर्वत एवेत्यर्थः। आहअवधेरबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वादू , अतो नातिरिच्यत इति, 'शेषाः तिर्यड्नरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते-नारकदेवतीर्थकरा अव
॥४५॥ धेरबाह्या भवन्तीति, किमुक्तं भवति ?-नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः-किं ते तेन
*अत्रेष्टितो. + तीर्थकरा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org