SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ |हारिभद्री यवृत्तिः |विभागः१ ४४॥ आवश्यक- बाह्यलाभः, अधिः प्रक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कोऽसौ? है-उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति !, आह–'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्र- कालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थः-एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः ॥ १२॥ द्वितीयगाथाव्याख्या-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? तच्च तदुभयं च तदुभय, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि ?-उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा 'एकसमयेन भवति अभ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुश्चनप्रसारणवदिति गाथार्थः॥ ६३ ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज मणोदवे, भागो लोगपलियस्स' (४२) इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानी द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह संख्येयो मनोद्रव्यविषयेऽवधौ भागो लोकपल्योपमयोः * अवधेः + तसिन् । गुणश्च विभा० ६०पादः प्रति समयेनैवं. SESTOCKAGES ४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy