________________
विहाय फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डको तीत्री, | तथेतरौ मन्दौ, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ ६० ॥ द्वितीयगाथाब्याख्या-फडकानि-पूर्वोक्तानि, तानि च
अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभयस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकैशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति, तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह-आनुगामुकाप्रतिपातिफडकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफडकयोति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामुकं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एवे, नेत्थमनानुगामुकमिति गाथार्थः॥ ६१॥ व्याख्यातं तीव्रर्मन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहबाहिरलंभे भज्जो, व्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥ ६२॥ अमितरलडीए, उ तदुभयं नत्थि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ ६३॥ प्रथमगाथाव्याख्या-तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वाँ विच्छिन्नः स बाह्यः तस्य लाभो
१ विशेषस्पर्धकसद्भावे तीव्रत्वमवधेरितरथा चेतरत् मध्यमे च मिश्रतेति कारणं तीव्रादेः स्पर्धकान्येवेति तद्दर्शने न प्रक्रमविरोध इत्यर्थः २ असंख्येयानां संख्येयानां वोल्पनाना स्पर्धकानामवस्थानात् क्षेत्रान्तरेऽपि. ३ आनुगामुकादीनि. ४ आ कैवल्याप्तेः भवक्षयात् स्थानापेक्षया भवान्तरेऽवस्थानमा श्रित्य च ५ प्रतिपातिनोऽप्यानुगामुकत्वदर्शनायेदम्. ६ स्पर्धकरूपकारणाभिधानद्वारेण, ७ अनुक्तसमुच्चयार्थत्वात् परिमण्डलाकारोऽपि. * तद्विपरीतानि च + विशेषः । तदुभयं चेग०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org