________________
X
आवश्यक
॥४३॥
भागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानि- हाजिर रपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्य-18॥
यवृत्तिः स्यानन्तभागादिवद्धौ सत्यां तत्पयोयाणामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्या-विभाग यमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्म्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिानिर्वा तस्य तथैवाविरुद्धेति. प्रतिनियतविषयत्वात् , विचित्रावधिनिबन्धनाच्चेति गाथार्थः॥२९॥ एवं तावच्चलद्वारं व्याख्यातम् , इदानीं तीव्रमन्दद्वा. रावयवार्थ व्याचिख्यासुरिदमाह
• फड्डा यं असंखिज्जा, संखेज्जा यावि एगजीवस्स । एकप्फडवओगे, नियमा सव्वत्थ उवउत्तो॥६०॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसोय मणुस्सतेरिच्छे ॥ ६१॥
प्रथमगाथाव्याख्या-इह फड्डुकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडकानीव फडकानि, तानि चासंख्येयानि संख्येयानि चैकजीवस्य, तत्रैकफड्डकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फडकैरुपयुक्ता भवन्ति, एकोपयोगत्वाजीवस्य, लोचनद्वयोपयोगवद ,प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह-तीव्रमन्दद्वारं प्रक्रान्तं
१ अनन्तभागगुणवृद्धिहानी द्रव्ये, पर्यायेषु षट्स्थानगा वृद्धिहाँनिर्वा २ द्वाभ्यां नेत्राभ्यां निरीक्षते नरो युगपत् , न चानेकोपयोगता, तद्वदत्राप्यनेकस्पर्धकैरुपयोगेऽप्येकदा नानेकोपयोगता, एकनेत्रोपयोगे च उपयोगो द्वयोरेव, युगपदुपयुज्यमानत्वात्. ३ उपयोगः कार्य, न च दीप एकया दिशा प्रकाशयति केवलं, किं तु सर्वाभिः * स्वपर्याया. + फट्टाइ । युक्तो भवति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org