________________
द्वितीयगाथा व्याख्या - इह लब्धितोऽवस्थानं चिन्त्यते - अद्धा - अवधिलब्धिकालः अत्र अद्धायाः - कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ 'षट्षष्टिसागरा' इति षटूषष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग 'तो' विरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः ॥ ५८ ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽह—
वुडी वा हाणी वा, चउव्विहा होइ वित्तकालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥ ५९ ॥
व्याख्या—तत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति सा च वृद्धिर्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा - " "असंखेज्जभागवुडी वा संखेज्जभागवुड्डी वा संखेज्जगुणवुड्ढी वा असंखेज्जगुणवुड्डी वा,” एवं हानिरपि न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिहानिर्वा, कथम् ? - अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि द्रव्यानन्त्यादिति भावार्थः । तथा षड्विधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धिर्वा हानिवेंति वर्त्तते, पर्यायानन्त्यात्, कथम् ? - अनन्त -
१ न केवलं काल इत्यपिशब्दार्थः, आदिना आधारादिग्रहः गुणपर्यायग्रहो वा. २ गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन. ३ अनन्तरसमय इत्यर्थः, ४ असंख्येयभागवृद्धिर्वा संख्येयभागवृद्धिर्वा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा ( प्रज्ञापनायां ) * तत्र. + अन्यत्र च । • तोपयोगत्वे. द्विविधा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org