________________
आवश्यक
हारिभद्री| यवृत्तिः विभागः१
॥४२॥
एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अननुगमनशीलोऽनुगामुकः स्थितप्रदीपवत्, तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगतपुरुषैकलोचनोपघातवत् , चशब्दः समुच्चयार्थः, मिश्रश्च, मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविधस्त्रिविध इति गाथार्थः ॥५६॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वाराव|यवार्थप्रतिपादनाय गाथाद्वयमाह
खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं । दव्वे भिण्णमुहत्तो, पजवलंभे य सत्तह ॥७॥
अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इक्को समओ जहण्णणं ॥५८॥ प्रथमगाथाव्याख्या-अवस्थितिरवस्थानं तदू अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदेवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयस्त्रिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिप|रिणामः' । तथा 'दवे' इति द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, |भिन्नश्चासौ मुहूर्त्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्तौ चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्तिनो गुणाः शुक्लत्वादयः,क्रमवर्तिनः पर्यायानवपुराणादयः,यथोत्तरं च द्रव्य गुणपर्यायाणांसूक्ष्मत्वात् स्तोकोपयोगताइति गाथार्थः॥५७॥
१ उक्तमानुगामुकद्वारमधुनाऽवस्थितद्वारमाह * नानु०. + स एवावधि०. कोसओ उ.
॥४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org