SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नुवर्त्तते, तस्येवाकारो यस्यासौ पलकाकारः, एवमाकार शब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः - आतोद्यविशेषः, तथा चर्मावनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पुष्फेति' 'सूचनात्सूत्रं' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थः- तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवन पतिव्यन्तरज्योतिष्क कल्पोपपन्न कल्पातीतयैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानादू, आह च - तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः' उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ॥ ५५ ॥ उक्त संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्र चिकटयिषयेदमाह अणुगामिओ हैं ओही, नेरइयाणं तहेव देवाणं । अणुगामी' अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥ ५६ ॥ व्याख्या - अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः - नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां 'तथैव' आनुगामुक * आ + अ अणुगामि. / अनु. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy