________________
ASCIUGIAUSSURES
वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामित वर्त्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिण्णलोगनालिं, पासंति अणुत्तरा देवा' (५१) इत्यलमतिविस्तरेणेति गाथार्थः ॥ ५२ ॥ साम्प्रतमय-18 मेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्पंदर्शयन्नाह
उक्कोसो मणुएसुं, मणुस्सतिरिएमु य जहण्णो य । उक्कोस लोगमित्तो, पडिवाइ। परं अपडिवाई॥५३॥ | __ व्याख्या-द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्याः , चशब्द एवकारार्थः, तस्य चैवं प्रयोगः-मनुष्यतिर्यश्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शीलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव, लोकमात्रौंदाववधि-|
प्राक् प्रतिपादितत्वाद्वैमानिकानामवधेर्नात्र तदधिकारः. २ तत्र चतुर्णामपि निकायानां, तत्र वैमानिकानां, पृथगभिधानाभावात्. ३ द्वितीयपादात्, | तेषां जघन्येतरस्थित्योरर्धसागरोपमात् न्यूनत्वात्.५ तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पश्चाद्भावात् , तस्य चोक्तमानत्वात्. | वैमानिकावधिषु अनुत्तरोपपातिकावधेरैवोत्कृष्टत्वात् केवलमेतन्निर्दिष्ट. ७ भवगुणप्रत्ययसाधारणोऽवधिरिति. ८ संभिण्णलोगनाडिं पासंति भणुत्तरा देव | इति सूत्रेण सबबहुअगणिजीआ इत्यनेन च. * कृत्य. + तान्दर्श०. 1 तेरिच्छिएसु य जहणो. पडिवाई. जिघन्यतः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org