SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥४०॥ न्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह-'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः॥५०॥ हारिभद्रीएवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्वं च तदेवं दर्शयन्नाह यवृत्तिः एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं उवरिमगा, उडे सगकप्पथूभाई ॥५१॥ विभागः१ व्याख्या-'एतेषा' शक्रांदीनां, संख्यायन्त इति संख्ययाःन संख्यया असंख्येयाः, तिर्यग, द्वीपाश्च-जम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्-असंख्येयद्वीपोद-14 धिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्व स्वकल्पस्तूपायेव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः ॥५१॥ इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाह संखेजजोयणा खलु, देवाणं अडसागरे ऊणे । तेण परमसंखेजा, जहण्णयं पंचवीसं तु ॥५२॥ व्याख्या-संख्ययानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबधमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति ।। ॥४०॥ अर्धसागरोपमन्यून एव आयुषि सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं प्रमाणमवधेः. २ शक्रायुपलक्षितानां तत्तत्कल्पवासिसामानिकादीनामित्युक्तमेव प्राक्. * उर्दु च सकप्प०. + पण्णवीसं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy