SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, क?- नरान् कायन्तीति नरकाः, के गैरै शब्द इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात् , नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं भवति-नारकाधारो योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः ॥४६॥ एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराह चत्तारि गाउयाई, अद्भुट्ठाई तिगाँउया चेव । अड्डाइज्जा दुण्णि य, दिवड्डमेगं च निरएसु ॥४७॥ व्याख्या-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंख्यमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं-'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो येषां ते तथा तरवेनेति समासः. २ तात्स्थ्यात्तद्व्यपदेश इतिन्यायात्. ३ व्यधिकरणबहुव्रीहेरपि दर्शनात् | अन्यथाऽर्धचरवारीतिभावात् ४ उत्कृष्टेति. ५ जघन्येति. * तिगाउयं. + नरएसु. । अद्भुहाईयाइ जहण्णय अगाउयंताई। गाउअंति भणिों तंपिअ उक्कोसगजहणं ॥ १॥ [भाष्यगाथाऽव्याख्याता च]. Jan Education Interaoral For Personal & Private Use Only nelbaryo
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy