________________
आवश्यक
| याह-उपमानं उपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवति–उत्कृष्टावधिक्षेत्रोपमानं, 'अग्नि- हारिभद्री जीवा' प्रागभिहिता एवेति, आह-रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, यवृत्तिः अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्द्रव्यपरिमाणमुक्तं, इह तु विभागः१ 'रूपगतं लभते सर्व' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणीलक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिवन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः ॥४५॥ एवं तावत् पुरुषांनधिकृत्य क्षायोपँशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह'आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही, नरएसुई जोयणुक्कोसो॥ ४६॥
व्याख्या-तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहारश्च तेजश्च आहारतेजसी तयोलाभ इति समासः, लाभः प्राप्तिः परिच्छित्तिरित्यनान्तरं, इदमत्र हृदयं-तिर्यग्योनिषु योनियोनिमतामभेदोपचारात्8 तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परिच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति,
G ॥ ३८॥ १ उत्तरः. २ नास्मादन्यत् रूपगतमिति नियमनायेत्येवंरूपः. ३ विधिनियमयोर्विधिरेव ज्यायान् इति न्यायमपेक्ष्य विधेर्बलीयस्त्वाख्यानायाह-अथवे. त्यादि. ४ अरूपित्वात् रूपिविष यश्चावधिरिति च निर्णीतमनेकशः. ५ क्षेत्रकालद्वयस्य. ६ मनुष्यान् , इत्यर्थः, परमोहिनाणविओ, केवलमंतोमुहुत्तमित्तेणेति (वि०६८९) वचनात् परमावधेरा अन्तर्मुहत्केिवलोत्पत्तिः, केवलं च नरगतावेव ७ चारिव्रतपादिगुणहेतुत्वात्, * य २-४-५.
SACRECOLORONARRORS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org