________________
ASSESSESEISOS
लघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथा मनोद्रव्यविदस्तेष्वेवे दर्शनं नान्येष्वतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति । अथर्वां एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात् , चशब्दात् गुरुलघूनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषेविषयत्वमाविष्कृतं भवति, तथा चाँस्यैव नियमार्थ 'रूपगतं लभते सर्वे' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्व रूपगतं, नान्यदू इति, अलं प्रसङ्गेनेति गाथार्थः॥४४॥ एवं परमावधेद्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाहपरमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं, खित्तोवमिअं अगणिजीवा ॥४५॥ ___ व्याख्या-परमश्चासाववधिश्च परमावधिः, अवध्यवधिमतोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्त्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्व' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु वक्ष्यमाणाँस्तत्पर्यायान् इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना
अवधिः. २ अगुरुलध्वारम्भकापेक्षया. ३ घटादीनां गुरुलघुत्वादपिः. ४ मनःपर्यायज्ञानिनः. ५ मनोदव्येषु. ६ ज्ञानं. ७ घटादिषु. ८ द्वितीयप्रश्नसमाधानाय. ९ ध्रुववर्गणादीनामचित्तमहास्कन्धान्तानां. १० ग्रहगं. ११ आदिना वैक्रियाहारकतै जसेग्रहः. १२ विशेषा भेदाः प्रकाराः. १३ परमावधेः. १४ विषयस्य. १५ पूर्वेण सिद्धत्वात्. १६ पूर्वगाथादर्शितमेकपदेशावगाढादि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org