________________
आवश्यक॥ ३७ ॥
गाढं परमाणुव्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्ट विधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते आह-परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्वनत्वेनेति, ततैश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, 'लभते चागुरुलघु' चशब्दात् गुरुलघु, जोत्यपेक्षं चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कॉलेतो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेध्यत इति । आह- नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगाढमित्यपि न वक्तव्यं, 'रूवगयं लभइ सर्व' इत्यस्य वक्ष्यमणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो वादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरु
१ आकाशप्रदेशेषु हि स्वभाव एष यद् यावदनन्ताणुकोऽपि स्कन्धोऽन्ये च तत्र मान्ति स्कन्धाः २ आपेक्षिकपरमत्वव्यवच्छेदाय, जघन्यस्यापि लघ्वपेक्षया परमत्वाद्वृद्ध्यपेक्षया परमत्वदर्शनाय. ३ एकप्रदेशावगाढद्रव्यदर्शनसमुच्चयाय ४ विशेष्यतया ५ विशिष्य परमाणुव्यणुकादेर निर्देशात्. ६ एकप्रदेशादि. ७ जीवेन परिणामिताः कर्मवर्गणापुद्गलाः नासंख्येयानन्तरेण प्रदेशान्, जीवावगाहाभावात् इत्येकप्रदेशावगाढा: ८ अगुरुलघुदर्शनेऽपि गुरुलघुदर्शननियमाभावात् चशब्देनाक्षेपः ९ 'जातिश्च पुद्गललक्षणा, कार्मणान्तानामभिहितत्वात् ' ध्रुववर्गणादिकागुरुलघुव्यापेक्षयेत्यर्थः १० धर्माधर्माकाश जीवानामपि अगुरुलघुत्वात्. ११ पल्योपमासंख्येयभागरूपः १२ स्थूलत्वात्. १३ अग्रेतनगाथाय.
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः |विभागः
॥ ३७ ॥
wwwwww.jainelibrary.org