________________
द्वीपसमुद्राः, प्रमेयत्वेनेति, कालश्चासंख्येय एव, स च पल्योपमासंख्येयभागसमुदायमानो विज्ञेय इति, (ग्रन्थाग्रम् १००० ) । अत्र चासंख्येयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयंमिति । आह एवं सति 'तेयाभासादवाण अन्तरा एत्थ लहइ पट्ठवओ' ( गाथा ३८ ) इत्याद्युक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यङ्गुलावलिकाऽसं|ख्येयभागादि क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्य योर संख्येय क्षेत्र कालाभिधानात् न, प्रारम्भकस्योभ्यायोग्यद्रव्यग्रहणात् द्रव्याणां च विचित्र परिणामत्वादू यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अपद्रव्याणि वाऽधिकृत्य तदुक्तं, प्रचुरतैजसभाषाद्रव्याणि पुनरङ्गीकृत्येदं, अलं विस्तरेणेति गाथार्थः ॥ ४३ ॥ आह - जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु वा द्रव्यं पश्यतीत्युक्तं, न सर्वमेव विमध्यमावधिप्रमेयमपि चाङ्गुलावलिका संख्येय भागाद्यभिधानात् न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्विन्नेति, इत्यत्रोच्यते
एपसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुलघु अं, तेयसरीरे भवपुहुत्तं ॥ ४४ ॥ व्याख्या - प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढं, अवगाढमिति व्यवस्थितं, एकप्रदेशाव
१ तैजस द्रव्येभ्यः कार्मणानि सूक्ष्माणि, अबद्धेभ्यस्तैजसकार्मणेभ्यो बद्धानि स्थूलानि ततः पृथगू वचनं. २ तथा च नासंख्य क्षेत्रकालपरिच्छेदप्रसङ्गः. ३ सूक्ष्मेतरद्वारेण प्रसङ्गापादने आह- द्रव्येत्यादि, उभयायोग्यद्रव्येभ्यः तैजसभाषाद्रव्याणां यथायथं सूक्ष्मस्थूलत्वात् वैचित्र्यपर्यन्तानुधावनम्. ४ परिस्थूरन्यायात्काले चतुर्णां वृद्धिरित्युक्तेश्च व्याघातापत्तावाह - अल्पेत्यादि, तथा च स्तोकन्यूनतेजो भाषा द्रव्यग्रहणशक्ता वे तावत्कालपरिज्ञानमिति तत्त्वं. ५ रूपिद्रव्यं. ६ प्रमेयं. ७ असंख्यातद्वीपोदधिसकललोकेऽप्यवधौ तत्रस्थितानां रूपिणां दर्शनात्. ८ सामस्त्येन, अन्यथाधिकप्र देशाव गाढानामध्ये कावगाहनाऽस्त्येव. * पल्यो पमसं० ४ + अन्रोच्यते २-४ + अगुरुलहुअं १-३.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org