SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आवश्यक- 'बोद्धव्यो विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं काल- हारिभद्री S| तश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः 'कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन .यवृत्तिः बोद्धव्या इति वर्तते, अयं भावार्थः-कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथकू संख्येयान् भागान् जानीते, विभागः१ 'लोके' इति चतुर्दशरज्वात्मकलोकविषयेऽवधौ क्षेत्रतः कालतः स्तोकैन्यून पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति, द्रव्योपैनिबन्धनक्षेत्रकालाधिकारे प्रक्रान्ते केवलयोर्लोकपल्योपमक्षेत्रकालयोर्ग्रहणं अनर्थकमिति चेत्, न, इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्यै, अत एव । च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति गाथार्थः ॥ ४२॥ द्वितीयगाथाव्याख्या-तेजोमयं तैजसं, शरीरशब्दःप्रत्येकमभिसंबध्यते, 'तैजसशरीरे' तैजसशरीरविषयेऽवधौ क्षेत्रतोऽसंख्येया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असंख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निवृत्तं तन्मयं वा कार्मणं, शीर्यते इति शरीर, कार्मणं च तच्छरीरं चेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यं, एवं तैजसद्रव्यविषये चावधौ | भाषाद्रव्यविषये च क्षेत्रतो 'बोद्धव्या' विज्ञेयाः, संख्यायन्त इति संख्येया न संख्येया असंख्ययाः, द्वीपाश्च समुद्राश्च | SRAEREUSARAN ॥३६॥ पूर्व क्षेत्रकालयोवृद्धिव्याप्तिर्दर्शिता परं द्रव्येण तां दर्शनाय प्रक्रान्तं प्रकरणं. २ द्रव्यव्याप्तः, क्षेत्रकालवृद्धौ द्रव्याणां अवश्यं वृद्धः सामर्थ्यप्रापणं, | काले चउण्ह वुड्ढीत्यनेन निर्णीता च सा प्राक, ३ सामयंप्रापितत्वात् , द्रव्यपरिच्छेदवृद्धः क्षेत्रकालवृद्धि नियमः, सफलं च त्रयोपनिवन्धप्रकरणमेवं. ४ वक्ष्यति विशेषोऽसंख्येयगतोऽग्रे अत्र चासंख्येयेत्यादिना. * स्तोकान्यूनं १-५-६ + पनिवन्धेन ५-६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy