SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ • आवश्यक हारिभद्रीयवृत्तिः विभागः१ ता अनन्तराश्च ध्रुवानन्तराःप्रदेशोत्तरा एव वर्गणा भवन्ति,ततः 'तनुवर्गणाश्च तनुवर्गणा इति, किमुक्तं भवति!-भेदाभेदपरिणामाभ्यामौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्र एव भवन्ति, ततो 'मिश्र' इति | मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरिणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेपणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षम, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्ययभागहीनादिभेदाद् चतुःस्थानपतित उक्तः, तथा चोक्तं-"उक्कोसपएसिआणं भंते ! केवइआ पज्जवा पण्णत्ता ?, गोयमा! अणन्ता, से केणडेणं भंते ! एवं वुच्चइ ?, गोयमा! उक्कोसपएसिए उक्कोसपएसिअस्स दबयाए तुले, पएसठ्ठयाएवि तुल्ले, ओगाहणयाए चउट्ठाणवडिए, ठितीएवि ४, वण्णरसगन्ध अट्ठहि अ फासेहि छहाणवडिए" । अयं पुनस्तुल्य ऐव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीतिप्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः॥४०॥ ॥३५॥ केवलिसमुद्घातावसरे प्रतिप्रदेश आत्मगृहीतत्वात् सचित्तता कर्मपुद्गलानां, चतुर्थसमयापेक्षया लोकव्यापकता, निस्संबद्धत्वाभावान्महास्कन्धता.२ अचि त्तमहास्कन्धः ३ संख्येयभागासंख्येयगुणसंख्येयगुणग्रहः ४ उत्कृष्टप्रदेशिकानां भदन्त ! कियन्तः पर्यवाः प्रज्ञप्ताः', गौतम! अनन्ताः, तत्केनार्थेन भदन्त ! एव मुच्यते ?, गौतम ! उस्कृष्टप्रदेशिक उत्कृष्टप्रदेशिकस्य द्रव्यार्थतया तुल्यः प्रदेशार्थतयापि तुल्यः अवगाहनया चतुःस्थानपतितः स्थित्याऽपि, वर्णरसगन्धैरष्टभिः स्पर्शश्च षट्स्थानपतितः ५ वर्गणात्वात् परैस्तथाविधैरचित्तमहास्कन्धैः अवगाहनास्थितिभ्यां. ६ उत्कृष्टप्रदेशिकः अचित्तमहास्कन्धः ८ महान्तः स्कन्धाः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy