________________
SROSASSANSAMACOCK
शावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः
प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनिवृत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयं त्रयमायोजनीयमिति। एवं सर्वत्र भावना कार्या, 'परं परं सूक्ष्म 'प्रदेशतोऽसं
ख्येयगुणं' (प्राक्कैजसात् ) इति (तत्त्वार्थे अ०२ सूत्रे ३८-३९) वचनात् , कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ ३९ ॥ द्वितीयगाथाव्याख्या-तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थः, 'इतरा' इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति, 'अध्रुवा' इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, |एतदुक्तं भवति–एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवगेणा अव्यवहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्रः ध्रुवाश्च
द्वयोरभिधानं प्रसङ्गात्. २ अष्टानां वर्गणानामन्त्ये तद्भावात्. ३ सूत्रं सूचनकृदिति सूत्रलक्षणात्. ४ तस्यायुटिसंभषे सत्येव भिन्नवर्गणारम्भः, अन्यद्वा किञ्चिद्वर्णादिपरिणामवैचित्र्यं तदारम्भे कारणम्.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org