SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥३४॥ प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलङ्घय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिवृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाच्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामयुक्तत्वाच्चाग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्ध्या प्रवर्धमानाः खल्वनन्ता एवोल्लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणामयुक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिर्वृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः | आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयं । आहकथं पुनरिदं एकैकस्यौदारिकादेवयं त्रयं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा 'विपर्यासतो' विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति-एकप्रदेशावगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येया असंख्येयप्रदे द्वितीयाबहुवचनं, एताश्चौदारिकस्यैवायोग्या इति. २ औदारिकपरिणमनयोग्यतारूपति. ३ औदारिकशरीरतया परिणमनीयाः" * वर्धमानाः २-४ + अतिप्रचुर युक्तत्वात् । आनपानयोः ५% तथा सं० ४-५-६. Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy